परमक्रुपालुपरामात्माना संरचितेऽनेकानि नररत्नानि संजातानि। युगेयुगे विश्वकल्याणाय वैश्वक्यावश्यक तानियमानुसारेण परोपकारिणः पुरुषाः प्रजायन्ते च। तेनैव कारणेन बहुरतन् विसुंधरा इति कथ्यते।
अस्माकं जनपदेऽप्यस्याभिवादनकथानायको भास्करोऽपि नररत्नसंज्ञया बहुमानितुं सर्वदा योग्य एवास्ति।
सौराष्ट्रप्रदेशान्तर्गत विद्यापुरुषाणां राजपुरुषाणां च जन्मदात्री रूपायां भावनगरेति विश्रुतायां
पावननागरभून्या योगेन्द्रमादेव्योः पित्रोः द्विजमन्दिरे लब्धजन्माजन्मत एवं प्रज्ञाचक्षुः शिशुरपि
स्वकिययाडडत्मप्रज्ञया संसारं विलोक्यमानो भास्करो नाम तनयोऽस्मिन्वर्षे षष्ठितमं जीवनाब्दं प्रप्नोति। इदमेव निमित्तं संप्राप्य सर्वथा प्रशस्त्याः पारंगतं निष्कामकर्मयोगिनमत्यन्तात्मीयं प्रसादसदनसुह्यत्कृते निरामयचिरजीवनाय मनः पद्मोभ्दवां शुभकामनां प्रकटीकरोमि।
केनपि क विना सत्यमुक्त यत्
कुलं पवित्रं जननी कृतार्था वसुन्धरा पुण्यवती च येन”
इयं वचनं भास्करेण स्वक्र मनिष्ठारूपयोगेन सार्थकीकृतं सफली कृतं च नात्र लेशमात्रोऽपि संदेहः। तेन तस्य हदयं स्वसदृशान् नेत्रविहीनान् जनान् स्वान्तश्चक्षुषा दृष्ट्वा तेषामसह्यामुपेक्षितामवस्थां मनसि विचार्य तेषां स्वबन्धुभावेन साहाय्याथं निरपेक्षरूपेण मनसा वाचा कर्मणा नक्तंदिवमेकीकृत्य यदुधम आरब्धः सुचारुरूपेण संचालितः तथा चाध्यावधिरपि प्रसारितः विकसीकृतः तत्तु सनेत्रैनरेंरपि कर्तुमशक्य| संस्कृताङ्गतोभय भाषायां पाण्डित्यं प्राप्तम्, विध्यालयमहाविद्यालयेष्व-प्युत्तममंअध्यापनकायं सफलं संपाद्यापूर्वः शिष्यस्नेहः संपादितश्च।
गुजरातसर्वकारस्य विकलाङ्गविभागाध्यक्षरूपेण सत्तास्थानं समलङ्कृतम्। विकलाङ्गानां समुद्धारार्थं जीवनं समपिंतम्, तथापि तत्कार्यात् नार्थोपार्जनम् अहङ्काराङ्गिकारो लेशमात्रोडपि कृतः। क विभर्तृहरिणा सत्यमेव कथितं यत्
“एते सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये।”
श्री भास्महोदयेन भर्तृहरिं सत्यीकृतः इत्यस्मिन्क रालक लियुगेडपि अनुभूयते।
भास्करस्य प्रकृत्याम् मया स्पष्टवक्त त्वम्, न्यायोचितव्यवहारः, अर्थशुचित्वम्, परपीडास्वामपीडानुभवः,
निष्कापट्यम् कर्मनिष्ठा इत्यादयः गुणाः साहजिका अवलोकिताः। तेष्वपि एको सगुणोऽत्यन्तः मां स्पृष्टः। तत्तु “परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विलसन्तः सन्तिसन्तः कियन्तः?”
सः परमाणुरूप गुणमपि सदा पर्वतीकृत्यापरान् दर्शयति।
तस्य जीवनसंगिनी श्रीमति प्रवीणा मेहता या न तु शब्दतः किन्त्वर्थतोऽपि प्रवीणैवास्ति। सा तस्य सहधर्मचारिणी अर्धाङ्गना भास्करस्य नेत्ररत्नप्रियारमणी संजाता। तया तु “पत्नी नाम पत्युर्नः यज्ञसंयोगे” इति श्रुति कथनमपि। सार्थकिकृतम। सापि धन्यवादार्हास्ति। विकलाङ्गसेवाध्वरे तयापि स्वशक्तिं निष्कामरूपेण विनियुज्य छायेव तं
भास्करमानवगच्छत्। किं बहुना?
प्रज्ञाचक्षुर्नास्ति प्रज्ञाविहीनः
सत्कार्येणापि भास्करोडस्ति न नाम्ना।
चक्षुषान्धानन्यशारीरदोषान्
संसेव्यैव स्वात्मसंतोष आप्तः|| १||
विकलाङ्गसमुद्धर्ता जीवनार्थप्रकाशकः।
उपेक्षितमनुष्येषु स्वात्मश्रद्धाप्रपूरकः||२||
प्रवीणा संगिनी यस्य अन्तःप्रज्ञा प्रियासुहृत्।
कर्मनिष्ठबृहच्छक्ति भॉस्करस्य कुटुम्बिनः||३||
विद्याविनयसंपनः शुचिः सर्वक्रि यासु च।
दयालुविंकलाङ्गेभ्यः प्रथितां कीर्तिमाप्तवान्||४||
सर्वत्र महती प्रभा प्रकटिता प्रज्ञैक चक्षुणता
सेवा भक्ति रहैतुका वितरिता नेत्रान्धबन्धुप्रिया।
सम्मानं समुपार्जितं यशगुणं यत् देशदेशान्तरात्
प्रावीण्यं मुखरीकृतं प्रतिदिनं श्रीभास्करेणात्मना||५||
शतं जीव शरदो भासकरो से भास्क रोपमः।
दिनेशो याचते नित्यं षष्ठिपूत्यां सदा शिवम्||६||
षट् षट् पूर्ण द्वि संख्याके (२०६६) श्रावणे सितषट्तिथौ
भास्क रेडहं प्रयच्छआमि भास्करं शुभकामनाम्||७||